Friday, 17 December 2010

यक्ष प्रश्नः


    यक्ष प्रश्नः

The number of chapters varies from publisher to publisher but they have started the session from verse number 45.
 यक्ष उवाच ।
किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः ।
कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति ॥ ४५॥

 युधिष्ठिर उवाच ।
ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः ।
धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ॥ ४६॥

 यक्ष उवाच ।
केनस्विच्छ्रोत्रियो भवति केनस्विद्विन्दते महत् ।
केनस्विद्द्वितीयवान्भवति राजन्केन च बुद्धिमान् ॥ ४७॥

 युधिष्ठिर उवाच ।
श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् ।
धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥ ४८॥

 यक्ष उवाच ।
किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव ।
कश्चैषां मानुषो भावः किमेषामसतामिव ॥ ४९॥

 युधिष्ठिर उवाच ।
स्वाध्याय एषां देवत्वं तप एषां सतामिव ।
मरणं मानुषो भावः परिवादोऽसतामिव ॥ ५०॥

 यक्ष उवाच ।
किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव ।
कश्चैषां मानुषो भावः किमेषामसतामिव ॥ ५१॥

 युधिष्ठिर उवच ।
इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव ।
भयं वै मानुषो भावः परित्यागोऽसतामिव ॥ ५२॥

 यक्ष उवाच ।
किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः ।
का चैषां वृणुते यज्ञं कां यज्ञो नातिवर्तते ॥ ५३॥

 युधिष्ठिर उवाच ।
प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः ।
ऋगेका वृणुते यज्ञं तां यज्ञो नातिवर्तते ॥ ५४॥

 यक्ष उवाच ।
किंस्विदावपतां श्रेष्ठं किंस्विन्निवपतां वरम् ।
किंस्वित्प्रतिष्ठमानानां किंस्वित्प्रसवतां वरम् ॥ ५५॥

 युधिष्ठिर उवाच ।
वर्षमावततां श्रेष्ठं बीजं निवपतां वरम् ।
गावः प्रतिष्ठमानानां पुत्रः प्रसवतां वरः ॥ ५६॥

 यक्ष उवाच ।
इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः ।
संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ॥ ५७॥

 युधिष्ठिर उवाच ।
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः ।
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥ ५८॥

 यक्ष उवाच ।
किंस्विद्गुरुतरं भूमेः किंस्विदुच्चतरं च खात् ।
किंस्विच्छीघ्रतरं वायोः किंस्विद्बहुतरं तृणात् ॥ ५९॥

 युधिष्ठिर उवाच ।
माता गुरुतरा भूमेः खात् पितोच्चरस्तथा ।
मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात् ॥ ६०॥

 यक्ष उवाच ।
किंस्वित्सुप्तं न निमिषति किंस्विज्जातं न चोपति ।
कस्यस्विद्धृदयं नास्ति किंस्विद्वेगेन वर्धते ॥ ६१॥

 युधिष्ठिर उवाच ।
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति ।
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ॥ ६२॥

 यक्ष उवाच ।
किंस्वित्प्रवसतो मित्रं किंस्विन्मित्रं गृहे सतः ।
आतुरस्य च किं मित्रं किंस्विन्मित्रं मरिष्यतः ॥ ६३॥

 युधिष्ठिर उवाच ।
सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः ।
आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः ॥ ६४॥

 यक्ष उवाच ।
कोऽतिथिः सर्वभूतानां किंस्विद्धर्मं सनातनम् ।
अमृतं किंस्विद्राजेन्द्र किंस्वित् सर्वमिदं जगत् ॥ ६५॥

 युधिष्ठिर उवाच ।
अतिथिः सर्वभूतानामग्निः सोमो गवामृतम् ।
सनातनोऽमृतो धर्मो वायुः सर्वमिदं जगत् ॥ ६६॥

 यक्ष उवाच ।
किंस्विदेको विचरते जातः को जायते पुनः ।
किंस्विद्धिमस्य भैषज्यं किंस्विदावपनं महत् ॥ ६७॥

 युधिष्ठिर उवाच ।
सूर्य एको विचरते चन्द्रमा जायते पुनः ।
अग्निर्हिमस्य भैषज्यं भूमिरापवनं महत् ॥ ६८॥

 यक्ष उवाच ।
किंस्विदेकपदं धर्म्यं किंस्विदेकपदं यशः ।
किंस्विदेकपदं स्वर्ग्यं किंस्विदेकपदं सुखम् ॥ ६९॥

 युधिष्ठिर उवाच ।
दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः ।
सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् ॥ ७०॥

 यक्ष उवाच ।
किंस्विदात्मा मनुष्यस्य किंस्विद्दैवकृतः सखा ।
उपजीवनं किंस्विदस्य किंस्विदस्य परायणम् ॥ ७१॥

 युधिष्ठिर उवाच ।
पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा ।
उपजीवनं च पर्जन्यो दानमस्य परायणम् ॥ ७२॥

 यक्ष उवाच ।
धन्यानामुत्तमं किंस्विद् धनानां स्यात् किमुत्तमम् ।
लाभानामुत्तमं किंस्यात् सुखानां स्यात्किमुत्तमम् ॥ ७३॥

 युधिष्ठिर उवाच ।
धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् ।
लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा ॥ ७४॥

 यक्ष उवाच ।
कश्च धर्मः परो लोके कश्च धर्मः सदा फलः ।
किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते ॥ ७५॥

 युधिष्ठिर उवाच ।
आनृशंस्यं परो धर्मस्त्रयी धर्मः सदा फलः ।
मनो यम्य न शोचन्ति सन्धिः सद्भिर्न जीर्यते ॥ ७६॥

 यक्ष उवाच ।
किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति ।
किं नु हित्वाऽर्थवान्भवति किं नु हित्वा सुखी भवेत् ॥ ७७॥

 युधिष्ठिर उवाच ।
मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति ।
कामं हित्वाऽर्थवान्भवति लोभं हित्वा सुखी भवेत् ॥ ७८॥

 यक्ष उवाच ।
किमर्थं ब्राह्मणे दानं किमर्थं नटनर्तके ।
किमर्थं चैव भृत्येषु किमर्थं चैव राजसु ॥ ७९॥

 युधिष्ठिर उवाच ।
धर्मार्थं ब्राह्मणे दानं यशोर्थं नटनर्तके ।
भृत्येषु भरणार्थं वै भयार्थं चैव राजसु ॥ ८०॥

 यक्ष उवाच ।
केन स्विदावृतो लोकः केन स्विन्न प्रकाशते ।
केन त्यजति मित्राणि केन स्वर्गं न गच्छति ॥ ८१॥

 युधिष्ठिर उवाच ।
अज्ञानेनावृतो लोकस्तमसा न प्रकाशते ।
लोभात्त्यजति मित्राणि सङ्गात् स्वर्गं न गच्छति ॥ ८२॥

 यक्ष उवाच ।
मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् ।
श्राद्धं मृतं कथं वा स्यात् कथं यज्ञो मृतो भवेत् ॥ ८३॥

 युधिष्ठिर उवाच ।
मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् ।
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ॥ ८४॥

 यक्ष उवाच ।
का दिक्किमुदकं प्रोक्तं किमन्नं किंच वै विषम् ।
श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च ॥ ८५॥

 युधिष्ठिर उवाच ।
सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् ।
श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ॥ ८६॥

 यक्ष उवाच ।
तपः किंलक्षणं प्रोक्तं को दमश्च प्रकीर्तितः ।
क्षमा च का परा प्तोक्ता का च हृः परिकीर्तिता ॥ ८७॥

 युधिष्ठिर उवाच ।
तपः स्वधर्मवर्तित्वं मनसो दमनं दमः ।
क्षमा द्वन्द्वसहिष्णुत्वं हृरकार्यनिवर्तनम् ॥ ८८॥

 यक्ष उवाच ।
किं ज्ञानं प्रोच्यते राजन्कः शमश्च प्रकीर्तितः ।
दया च का परा प्रोक्ता किञ्चार्जवमुदाहृतम् ॥ ८९॥

 युधिष्ठिर उवाच ।
ज्ञानं तत्त्वार्थसंबोधः शमश्चित्तप्रशान्तता ।
दया सर्वसुखैषित्वमार्जवं समचित्तता ॥ ९०॥

 यक्ष उवाच ।
कः शत्रुर्दुर्जयः पुंसां कश्च व्यादिरनन्तकः ।
कीदृशश्च स्मृतः साधुरसाधुः कीदृशः स्मृतः ॥ ९१॥

 युधिष्ठिर उवाच ।
क्रोधः सुदुर्जयः शत्रुर्लोभो व्यादिरनन्तकः ।
सर्वभूतहितः साधुरसादुर्निर्दयः स्मृतः ॥ ९२॥

 यक्ष उवाच ।
को मोहः प्रोच्यते राजन्कश्च मानः प्रकीर्तितः ।
किमालस्यं च विज्ञेयं कश्च शोकः प्रकीर्तितः ॥ ९३॥

 युधिष्ठिर उवाच ।
मोहो हि धर्ममूढत्वं मानस्त्वात्माभिमानिता ।
धर्मनिष्क्रियताऽऽलस्यं शोकस्त्वज्ञानमुच्यते ॥ ९४॥

 यक्ष उवाच ।
किं स्थैर्यमृषिभिः प्रोक्तं किं च धैर्यमुदाहृतम् ।
स्नानं च किं परं प्रोक्तं दानं च किमिहोच्यते ॥ ९५॥

 युधिष्ठिर उवाच ।
स्वधर्मे स्थिरता स्थैर्यं धैर्यमिन्द्रियनिग्रहः ।
स्नानं मनोमलत्यागो दानं वै भूतरक्षणम् ॥ ९६॥

 यक्ष उवाच ।
कः पण्डितः पुमान्ज्ञेयो नास्तिकः कश्च उच्यते ।
को मूर्खः कश्च कामः स्यात् को मत्सर इति स्मृतः ॥ ९७॥

 युधिष्ठिर उवाच ।
धर्मज्ञः पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते ।
कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः ॥ ९८॥

 यक्ष उवाच ।
कोऽहङ्कार इति प्रोक्तः कश्च दंभः प्रकीर्तितः ।
किं तद्दैवं परं प्रोक्तं किं तत्पैशुन्यमुच्यते ॥ ९९॥

 युधिष्ठिर उवाच ।
महाज्ञानमहङ्कारो दम्भो धर्मो ध्वजोच्छ्रयः ।
दैवं दानफलं प्रोक्तं पैशुन्यं परदूषणम् ॥ १००॥

 यक्ष उवाच ।
धर्मश्चार्थश्च कामश्च परस्परविरोधिनः ।
एषां नित्यविरुद्धानां कथमेकत्र सङ्गमः ॥ १०१॥

 युधिष्ठिर उवाच ।
यदा धर्मश्च भार्या च परस्परवशानुगौ ।
तदा धर्मार्थकामानां त्रयाणामपि सङ्गमः ॥ १०२॥

 यक्ष उवाच ।
अक्षयो नरकः केन प्राप्यते भरतर्षभ ।
एतन्मे पृच्छतः प्रश्नं तच्छीघ्रं वक्तुमर्हसि ॥ १०३॥

 युधिष्ठिर उवाच ।
ब्राह्मणं स्वयमाहूय याचमानमकिञ्चनम् ।
पश्चान्नस्तीति यो ब्रूयात् सोऽक्षयं नरकं व्रजेत् ॥ १०४॥

वेदेषु धर्मशास्त्रेषु मिथ्या यो वै द्विजातिषु ।
देवेषु पितृधर्मेषु सोऽक्षयं नरकं व्रजेत् ॥ १०५॥

विद्यमाने धने लोभाद्दानभोगविवर्जितः ।
पश्चान्नास्तीति यो ब्रूयात् सोऽक्षयं नरकं व्रजेत् ॥ १०६॥

 यक्ष उवाच ।
राजन्कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा ।
ब्राह्मण्यं केन भवति प्रब्रूह्येतत् सुनिश्चितम् ॥ १०७॥

 युधिष्ठिर उवाच ।
श्रुणु यक्ष कुलं तात न स्वाध्यायो न च श्रुतम् ।
कारणं हि द्विजत्वे च वृत्तमेव न संशयः ॥ १०८॥

वृत्तं यत्नेन संरक्ष्यं ब्राह्मणेन विशेषतः ।
अक्षीणवृत्तो न क्षीणो वृत्ततस्तु हतो हतः ॥ १०९॥

पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः ।
सर्वे व्यसनिनो मूर्खा यः क्रियावान्स पण्डितः ॥ ११०॥

चतुर्वेदोऽपि दुर्वृत्तः स शूद्रादतिरिच्यते ।
योऽग्निहोत्रपरो दान्तः स ब्राह्मण इति स्मृतः ॥ १११॥

 यक्ष उवाच ।
प्रियवचनवादी किं लभते
 विमृशितकार्यकरः किं लभते ।
बहुमित्रकरः किं लभते
 धर्मे रतः किं लभते कथय ॥ ११२॥

 युधिष्ठिर उवाच ।
प्रियवचनवादी प्रियो भवति
 विमृशितकार्यकरोऽधिकं जयति ।
बहुमित्रकरः सुखं वसते
 यश्च धर्मरतः स गतिं लभते ॥ ११३॥

 यक्ष उवाच ।
को मोदते किमाश्चर्यं कः पन्थाः का च वार्तिका ।
वद मे चतुरः प्रश्नान्मृता जीवन्तु बान्धवाः ॥ ११४॥

 युधिष्ठिर उवाच ।
पञ्चमेऽहनि षष्ठे वा शकं पचति स्वे गृहे ।
अनृणी चाप्रवासी च स वारिचर मोदते ॥ ११५॥

अहन्यहनि भूतानि गच्छन्तीह यमालयम् ।
शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥ ११६॥

तर्कोऽप्रतिष्ठः श्रुतयो विभिन्न
 नैको ऋषिर्यस्य मतं प्रमाणम् ।
धर्मस्य तत्त्वं निहितं गुहायां
 महाजनो येन गतः स पन्थाः ॥ ११७॥

अस्मिन्महामोहमये कटाहे
 सूर्याग्निना रात्रिदिवेन्धनेन ।
मासर्तुदर्वीपरिघट्टनेन
 भूतानि कालः पचतीति वार्ता ॥ ११८॥

 यक्ष उवाच ।
व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप ।
पुरुषं त्विदानीं व्याख्याहि यश्च सर्वधनी नरः ॥ ११९॥

 युधिष्ठिर उवाच ।
दिवं स्पृशति भूमिं च शब्दः पुण्येन कर्मणा ।
यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥ १२०॥

तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च ।
अतीतानागते चोभे स वै सर्वधनी नरः ॥ १२१॥

 यक्ष उवाच ।
व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः ।
तस्मात्त्वमेकं भ्रातॄणां यमिच्छसि स जीवतु ॥ १२२॥

 युधिष्ठिर उवाच ।
श्यामो य एष रक्ताक्षो बृहच्छाल इवोत्थितः ।
व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु ॥ १२३॥

 यक्ष उवाच ।
प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् ।
स कस्मान्नकुलो राजन्सापत्नं जीवमिच्छसि ॥ १२४॥

यस्य नागसहस्रेण दशसङ्ख्येन वै बलम् ।
तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि ॥ १२५॥

तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव ।
अथ केनानुभावेन सापत्नं जीवमिच्छसि ॥ १२६॥

यस्य बाहुबलं सर्वे पाण्डवाः समुपासते ।
अर्जुनं तमपाहाय नकुलं जीवमिच्छसि ॥ १२७॥

 युधिष्ठिर उवाच ।
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद्धर्मं न त्यजामि मा नो धर्मो हतोऽवधीत् ॥ १२८॥

आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम् ।
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ॥ १२९॥

धर्मशीलः सदा राजा इति मां मानवा विदुः ।
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ॥ १३०॥

कुन्ती चैव माद्री च द्वे भार्ये तु पितुर्मम ।
उभे सपुत्रे स्यातां वै इति मे धीयते मतिः ॥ १३१॥

यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः ।
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ॥ १३२॥

 यक्ष उवाच ।
तस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् ।
तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ॥ १३३॥

       From my book 
8
Group 
Number
Question 
number
The questions of Yaksha
1 1 What is it that makes the 
sun rise? 
2 Who accompanies him? 
3 Who causes him to set 
4 In who, is he established? 
2 5 By what, one becomes 
learned? 
6 By what, he attains greatest 
thing? 
7 How can one have a 
second? 
8 How can one acquire 
intelligence? 
3 9 What is the divinity of 
Brahmins? 
10 Their which work is like 
that of pious? 
11 What is human attribute in 
them? 
12 Which work is like that of 
pious? 
4 13 What is the divinity of 
Kshatriyas? 
14 Which work is like that of 
pious? 
15 What is their human 
attribute? 
16 Which work is like that of 
impious?
9
5 17 Which thing is „Sama‟ in 
Rite/‟Homa‟? 
18 What is Yaju in that? 
19 Which thing constitutes the 
„Homa‟? 
20 „Homa‟ cannot do without 
this
-what is that? 
6 21 What is the prima thing for 
those who cultivate? 
22 What is valuable to those 
who sow? 
23 What is of the foremost 
value to those wishing 
prosperity in the world? 
24 What is of the foremost 
value to those that bring 
forth? 
7 25 Which person, enjoying all 
the objects of the senses, 
endued with intelligence, 
regarded by the world and 
liked by all beings though 
breathing is not alive? 
8 26 What is weightier than 
earth? 
27 What is higher than sky? 
28 What is fleeter than air? 
29 What is more numerous 
than grass? 
9 30 What is that, which does not 
close its eyes while asleep? 
31 What is that, which does not
10
move after birth? 
32 What is that, which is 
without heart? 
33 What is that, which increase 
due to, own force? 
10 34 Who is the friend of the 
exile? 
35 Who is the friend of 
householder? 
36 Who is the friend of him 
that ails? 
37 Who is the friend of one 
about to die? 
11 38 Who is the guest of all 
creatures? 
39 What is the eternal duty? 
40 What is nectar? 
41 What is this entire universe? 
12 42 What is that which moves 
alone? 
43 What is that which reborn 
after its birth? 
44 What is the remedy against 
cold? 
45 What is the largest field? 
13 46 What is the highest refuge 
of virtue? 
47 What of fame? 
48 What of heaven? 
49 What of happiness? 
14 50 What is the soul of man? 
51 Who is that friend bestowed
11
on man by deities? 
52 What is man's chief 
support? 
53 What also is his best refuge? 
15 54 What is the best of all 
laudable things? 
55 What is the most valuable of 
all his possession? 
56 What is the best of all 
gains? 
57 What is the best of all 
happiness? 
16 58 What is the highest duty in 
the world? 
59 Which virtue bears 
permanent fruit? 
60 There is no regret after 
controlling one thing, which 
is that? 
61 Who are they with whom an 
alliance cannot break? 
17 62 After renouncing which 
thing a person becomes 
agreeable? 
63 After renouncing which 
thing a person does not feel 
sorry? 
64 After renouncing which 
thing a person becomes 
meaningful? 
65 After renouncing which 
thing a person becomes
12
happy? 
18 66 After renouncing which 
thing a person becomes 
happy? 
67 Why one gives money to 
mimes and dancers? 
68 Why one gives money to 
servants? 
69 Why one gives money to 
king? 
19 70 With what is the world 
enveloped? 
71 What is that thing, due to 
which it cannot discover 
itself? 
72 For what are friends 
forsaken? 
73 For what, one fails to go to 
heaven? 
20 74 For what, one is considered 
as dead? 
75 For what, a kingdom is 
considered as dead? 
76 For what, Shraddha is 
considered as dead? 
77 For what, a „„Homa‟‟ is 
considered as dead? 
21 78 What constitutes the 
direction? 
79 What is water? 
80 What is food? 
81 What is poison? 
82 Which is the proper time of
13
Shraddha? 
22 83 What are the symptoms of 
penance? 
84 What is true restraint? 
85 What constitute 
forgiveness? 
86 What is shame? 
23 87 What, O king is said to be 
knowledge? 
88 What is calmness? 
89 What constitutes mercy? 
90 What is simplicity? 
24 91 What enemy is invincible? 
92 What constitutes an 
incurable disease for man? 
93 Which man is called a holy 
man? 
94 Which one is called unholy? 
25 95 What, O king, is ignorance? 
96 What is pride? 
97 What is understood by 
idleness? 
98 What is pride? 
26 99 According to Rishis, what is 
stability? 
100 What is patience? 
101 What is real ablution? 
102 What is donation? 
27 103 Which man is regarded as 
learned? 
104 Who is known as atheist?

14
105 Who is known as a fool? 
106 What is lust? 
107 What is envy? 
28 108 What is pride? 
109 What is hypocrisy? 
110 What is the grace of the 
deities? 
111 What is wickedness? 
29 112 Virtue, wealth and lust are 
opposed to one another. 
How can they be united at 
one place? 
30 113 Who is condemned to 
everlasting hell? 
31 114 By birth, behavior, study or 
learning a person becomes a 
Brahmin? 
32 115 What does one gain that 
speaks agreeable words? 
116 What does a person gets 
who does a work after 
proper thinking? 
117 What does a person gets, 
who have got many friends? 
118 And what he, that is devoted 
to virtue? 
33 119 Who is truly happy? 
120 What is most wonderful? 
121 What is 'the' path? 
122 What is 'the' news? 
34 123 You have truly answered 
my entire question! Tell us

15
know who is truly a man? 
124 Which man truly possesses 
every kind of wealth? 
35 125 Let one of your brothers, 
whom you wish, will 
become alive?






Ebook and paperback edition of Yaksha yudhisthira samvad by Akshay Chaitanya 
https://a.co/d/1ruUkJl

स्वामी अक्षय चैतन्य



No comments:

Post a Comment